Profile Image

डिटेक्टीवव्योमकेशबख्श्याख्यस्य कथा

@samvadah

अथ दशवर्षपूर्वतनस्य लोकार्पितस्य रोमहर्षणचलच्चित्रस्य राजपुत्रसुशान्ताभिनीतस्य डिटेक्टीवव्योमकेशबख्श्याख्यस्य कथेयं प्रस्तूयते। द्विचत्वारिंशदधिकनवशताधिकसहस्रतमे ॥१९४२॥ कृष्टाब्दे यदा जपानदेशीयैर्ब्रह्मदेशो जितस्तदनन्तरं कालीकटनगर्यां चीनदेशीयानां हरितगणसंज्ञकानां ॥Green Gang॥ केचन सदस्या अहिफेनभाण्डानवतारयन्ति स्म। अकस्मात्ते आक्रान्तास्तेषां नायकश्च रहसि केनचित् पुरुषेण क्रूरतयान्धः कृतः। ततस्त्रिभिर्मासैरतिक्रान्तैः स एव नेत्रहीनो नायकः स्वस्य नष्टस्याहिफेनस्य ॥Opium॥ गवेषणार्थं कालीकटं प्रतिनिवृत्तः। अत्रान्तरे वन्द्योपाध्यायोऽजितकुमारो नाम कश्चित्पुरुषो भुवननाम्नः स्वपितुस्तिरोधानविषये साहाय्यार्थं बख्शिव्योमकेशं नामान्वेषकमुपजगाम। आदौ व्योमकेशस्तस्य याचनां निचिक्षेप किन्तु यदा तस्य प्रेयसी पुरुषान्तरं वव्रे तदा स दुःखितस्तद्विस्मर्तुकाम इव तत्कार्यमङ्गीचकार। परेद्युर्व्योमकेशो डो•अनुकूलगूहेनाधिष्ठितं तद्वासगृहं गत्वा तत्रैवान्वेषणसौकर्यार्थमेकं प्रकोष्ठं भाटकेन जग्राह यत्रैव भुवनः पूर्वमुवास। तत्र स भुवनस्य प्रकोष्ठसहवासिनोऽश्विनीमहाशयस्य समीपे भुवनस्य ताम्बूलकरण्डकं प्राप ततः तस्य वधोऽभूदिति निश्चितवान्। ततः स भुवनस्य पूर्वां कर्मभूमिं पिहितां रसायनशालां गत्वा तस्याः स्वामिनः सिकदारगजाननस्य प्रेयसीमङ्गुरीदेवीं नटीमपश्यत्। व्योमकेशोऽङ्गुरीदेव्याः सकाशात्कानिचित्पत्राणि लब्ध्वाऽनुमतवान् यद् भुवनो धर्मशास्त्रविरुद्धेन मार्गेण गजाननं धनलोभेन तर्जयति स्म यस्मात् क्रुद्धेन गजाननेन स हतः। तस्य देहश्च तस्यामेव शालायां निगूहितः स्यात्। व्योमकेशो अनुकूलश्च पुनश्शालां गत्वा कस्मिंश्चिद्यन्त्रे भुवनस्य शवमपश्यताम्। तत उपदण्डाधिकारी वल्किः गजाननं पर्यपृच्छत्। किन्तु व्योमकेशः पत्राणां कालनिर्देशस्य मिथ्यात्वं ज्ञात्वा गजाननं मिथ्याभिशंसनाद्ररक्ष। तं गृहं प्रति गच्छन्तं व्योमकेशमङ्गुरीदेवी स्वचञ्चलभावैर्मोहयितुं प्रायतत। व्योमकेशः गजाननेन सह मिलितः स च तत्क्षणमेव विषप्रभावेण मूर्च्छितो भूत्वा पञ्चत्वमगच्छत्। गजाननं प्रति मृत्युभर्त्सनां कुर्वन् दृष्टः सुकुमारो नाम तन्मातृभागिनेयो युवा संशयत्वमवाप्नोत्। अनुकूलः कालीकटतोऽस्थायिरूपेण निरगच्छत् किन्तु स व्योमकेशाय मुद्राङ्कमेकं प्रेष्य पत्रेषु स्वव्याजकालनिर्देशस्य भुवनहननस्य चापराधौ स्वीकृतवान्। सुकुमारस्य भगिनी सत्यवती स्वभ्रातुर्निर्दोषतायां विश्वसन्ती तस्य साहाय्यार्थं व्योमकेशमयाचत। व्योमकेशो यानं तत्प्राप यत्र सुकुमारोऽन्तिमवारं दृष्टः। तस्य चालकेन च वातानाबेनाम्नः कस्यचिज्जापानदेशीयदन्तवैद्यस्य कार्यालयं प्रति निर्दिष्टः। ततो व्योमकेशोऽजितश्च तं वातानाबयमुपगम्य सुकुमारस्य वसन्तपञ्चमीकालिकस्य राष्ट्रियान्दोलनस्य स्वयंसेवकावावामिति न्यवेदयताम्। किन्तु वातानाबेस्तयोः शङ्कितः सन्नेकं यथार्थं स्वयंसेवकं तावनुसर्तुमादिदेश। तद्विदित्वा व्योमकेशोऽजितश्च वेषपरिवर्तनं कृत्वा तं स्वयंसेवकं वातानाबेकार्यालयं यावदनुसस्रतुः। छलं ज्ञातवता वातानाबया स स्वयंसेवकस्तस्य कार्यालये कार्यरता स्त्री च हतौ स च पलायितः। तत्र प्रविश्य तौ तयोः शवौ दृष्टवन्तौ व्योमकेशश्च तस्य स्वयंसेवकस्य कोषे चित्रमेकमविन्दत्। वासगृहं प्रतिनिवृत्तौ तौ अनुकूलेन सह मिलितवन्तौ यश्चात्मनः सुकुमारस्य च देशस्वातन्त्र्यार्थं जपानदेशीयैः सह कार्यकरणमङ्गीकृतवान्। तस्य योजनायां सुकुमारो मुक्तवङ्गस्य नेता भविष्यति। विश्वासघातित्वेन भुवनगजाननौ च तेनैव हताविति च सोऽवदत्। स्वप्रकोष्ठेऽजितः स्वपितरं भुवनमतिशयशोकेन निन्दति स्म। स कथितवान् यद् भुवनस्य सूत्रेण निर्मिते ताम्बूलचूर्णेऽहिफेनस्य प्रयोग आसीद् येन ग्राहका व्यसनिनोऽभवन्। एतज्ज्ञात्वा तस्य कर्मदातृभिः स कर्मच्युतः कृतः। अश्विनीमहाशयस्य भुवनकृतताम्बूलचूर्णे व्यसनं ज्ञातवान् व्योमकेशः स्वयं तच्चूर्णमास्वाद्य मादकानन्देनोन्मत्तः सन् सर्वस्य रहस्यस्य स्वरूपं भित्तौ चित्रयामास। मरणकाले गजाननेन यैङ्गग्वैङ्गस्य नाम स्फोटयितुं प्रयतितमिति च स सस्मार। प्रभाते व्योमकेशस्तन्मिश्रणं स्वशोणितं च परीक्षितवान्। तस्य रक्ते हेरविन्नख्यं मादकद्रव्यमदृश्यत किन्तु ताम्बूलचूर्णे किमपि न। तेन स ज्ञातवान् यद् भुवनः केनचिदपूर्वविधिना ग्राहकस्य शरीरे एव मादकं जनयितुं समर्थ आसीत्। यैङ्गग्वैङ्गमेव निर्दिशति स्मेति। व्योमकेशोऽथ ज्ञातवान् यत्तच्चित्रं वस्तुतः कालीकटनगर्यां गङ्गायाः प्रवाहपथं सुकुमारस्यान्दोलनस्थानानि च दर्शयति। कँहयिदैवस्य साहाय्येन व्योमकेशो हरितगणेन मिलित्वा रहस्यमवबुद्धवान्। यैङ्गग्वैङ्गो जपानदेशीयैः सह सन्धिं कृतवान् यत् ते तस्याहिफेनवहनमार्गानुपयुज्य वसन्तपञ्चम्यां दिनेऽकस्मात्कालीकटमाक्रमिष्यन्ति स च प्रतिदानेन नगरस्य मादकद्रव्यवाणिज्यस्य स्वामित्वं प्राप्स्यति। अङ्गुरीदेवी यैङ्गग्वैङ्गस्य प्रेयसीति च स्पष्टमभवत् या तं चतुर्भ्यो वर्षेभ्यो न दृष्टवती। सा च तस्यैव निर्देशेन गजाननं हत्वा व्योमकेशं मोहयितुमयतत किन्तु जपानदेशीयैः सह तस्य सन्धेरनभिज्ञासीत्। परेद्युरेवाक्रमणे नियोजिते व्योमकेशो वल्किमुपेत्य प्रातःकाले चतुर्वादने सर्वाः व्योमाक्रमणशङ्खा नादयितुं प्रार्थयत। वल्किस्तु तन्न स्वीचकार। तदा हरितगणाद् रक्षितः कँहयिदैवो व्योमकेशस्य पक्षं श्रितः। ततो व्योमकेशो अनुकूलं सत्यवतीं सुकुमारं वातानाबयं च वासगृहे मेलनायाजुहाव। स तेषां पक्षे स्थित इव स्वं प्रदर्श्य ते वञ्चिता इति चाकथयत्। तत्र मेलने व्योमकेशो रहस्यं प्राकाशयत् यद् अनुकूल एव यैङ्गग्वैङ्गो यश्चादर्शवादिनं सुकुमारं स्वप्रतापेन छलित्वा कालीकटं विश्वस्य मादकद्रव्यराजधानीं कर्तुमिच्छति। व्योमकेशोऽकथयद् यत्सोऽधिकारिभ्य आक्रमणस्थानानि पूर्वमेव न्यवेदयदिति। यैङ्गग्वैङ्गस्तु स केवलं भीषयत इत्याह। अङ्गुरीदेवी यैङ्गग्वैङ्गं निरोद्धुं प्रयतमाना तं शितशस्त्रेण हन्तुमप्युद्यता। स तु तां स्नेहमिव प्रदर्श्य समीपे आकृष्य छुरिकया जघान। अकस्माद्व्योमाक्रमणशङ्खा नादितुमारभन्त। तदुपयुज्य व्योमकेशो वातानाबयम् आक्रमणं स्थगयित्वा स्वसैनिकान् रक्षितुं नगराद्बहिर्गन्तुं च प्रैरयत्। कँहयिदैवस्य साहाय्येन सर्वं रहस्येन पश्यतो हरितगणस्य योधा यैङ्गग्वैङ्गमाचक्रमुः। व्योमकेशः शङ्खाकुलितां सत्यवतीमवदद् यत् स सत्यमेव केवलं भीषयते स्म। एतस्मिन्नेव कलकले स कस्यचिदाघातेन मूर्च्छितोऽपतत्। संज्ञां लब्ध्वा सोऽजितेन ज्ञापितो यद्धरितगणेन यैङ्गग्वैङ्गो गृहीत इति। तदा व्योमकेशः सत्यवतीं परिणेतुमपृच्छत् सा च मन्दहासेन स्वसम्मतिं सूचयाञ्चकार। परित्यक्तायां कस्याञ्चिद्यन्त्रशालायां हरितगणस्य नेता स्वपुत्रं प्रतिशोधेन यैङ्गग्वैङ्गमन्धं कर्तुमादिदेश। किन्तु यैङ्गग्वैङ्गः स्वयं तप्तलोहशलाकयात्मानमन्धं कृत्वा परिस्थितिपरिवर्तनेन तान् सर्वान् योधान् हन्तुं समर्थोऽभवत्। स व्योमकेशाय च तथैव प्रतिकर्तुं संकल्पं चकार। यन्त्रशालायां शङ्खे नादिते व्योमकेशः किमप्यनिष्टं शशङ्के॥

Public Last updated: 2025-07-31 03:10:57 AM